पूर्वम्: १।२।५१
अनन्तरम्: १।२।५३
 
प्रथमावृत्तिः

सूत्रम्॥ विशेषणानां चाजातेः॥ १।२।५२

पदच्छेदः॥ विशेषणानाम् ६।३ जातेः ५।१ लुपि ७।१ ५१ युक्तवत् ५१ व्यक्तिवचने १।२ ५१

अर्थः॥

तद्धितप्रत्ययस्य लुपि = लुबर्थस्य यानि विशेषणानि तेषाम् अपि युक्तवत् (प्रखृत्यर्थवत्) लिङ्गसङ्ख्ये भवतः, आ जातेः = जातेः पूर्वम्, आजातिप्रयोगात् इत्यर्थः। यदा तु विशेषणत्वेन विशेष्यत्वेन वा जातिः विवक्ष्यते तदा युक्तवद् भावः न भवति॥

उदाहरणम्॥

पञ्चालाः रमणीयाः बह्वन्नाः बहुक्षीरघृताः बहुमाल्यफलाः। गोदौ रमणीयौ बह्वन्नौ बहुक्षीरघृतौ बहुलाल्यफलौ। कटुकबदरी शोभना बहुमाल्यफला बहुक्षीरघृता॥
काशिका-वृत्तिः
विशेषणानां च अजातेः १।२।५२

लुपि इति वर्तते। लुबर्थस्य यानि विशेषणानि तेषाम् अपि च युक्तवद् व्यक्तिवचने भवतः जातिं वर्जयित्वा। पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः। गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ। अजातेः इति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषाम् अपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो, बह्वन्नः। गोदौ ग्रामो रमणीयो, बह्वन्नः इति। मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्चा अभिरूपः। वर्ध्रिका दर्शनीयं।
न्यासः
विशेषणानां चाजातेः। , १।२।५२

पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसंख्ययोर्लुबर्थेऽतिधेशात् तद्विशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव। यद्यपि भिन्नं विशेषणानां प्रवृत्तिनिमित्तम्; तथापि तेन भिन्नेनापि तत्र प्रवत्र्तमानानां स एव लुबर्थोऽतिदिष्टव्यक्तिवचनस्तेषामभिधेयः, तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिद्धे जातिप्रतिषेधार्थमिदं वचनम्। "गोदौरमणीयौ" इति। गोदौ नाम ह्यदौ, तयोरदूरभवो ग्राम इत्यर्थेऽण्। "वरणादिभ्यश्च" ४।२।८१ इति लुप् तस्य। "पञ्चालाः जनपदः"। "गोदौ ग्रामः "इति। जनपदग्रामशब्दौ जातिवचनौ। ताभ्यां जातिनिमत्ताभ्यां स एव लुबर्थो जातिरूपेणोच्यत इति तयोरपि व्यक्तवचने युक्तवत् स्याताम्। ततो "जातेः" इति प्रतिषेधः। "जात्यर्थस्य" इत्यादि। जातिशब्दस्यार्थो जात्यर्थः, तस्यायम् "अजातेः" इति युक्तवद्भावप्रतिषेधः, न जातिशब्दस्यैवेत्यर्थः। किमेव सति सिद्धं भवतीत्यत आह- "तेन" इत्यादि। अर्थस्य युक्तवद्भावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वत्र्तमानस्य तदीये लिङ्गसंख्ये न भवतः, तथा तद्विशेषणानामपि युक्तवद्भावो न बह्वन्न इत्यादौ न स्यात्, रमणीयादीनामजातिशब्दत्वात्। द्वारग्रहणं लुबर्थे जातिशब्द्स्य प्रवृत्तत्वात्, लुबर्थे जातिविशेषणानां साक्षादप्रवृत्तेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति। तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिद्वारेण तस्य तानि विशेषणानि भवन्ति। "मनुष्यलुपि" इति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां युक्तवद्भावप्रतिषेध इति। स च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाल्लभ्यते। "चञ्चाभिरूपः" इति। चञ्चेव मनुष्यश्चञ्चा-- "इवे प्रतिकृतौ" ५।३।९६ इति कन्। तस्य "लुम् मनुष्ये" ५।३।९८ इति लुप्। "अभिरूपः" इति विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति। " वर्ध्रिका" इति। पूर्ववत् कँल्लुपौ॥
बाल-मनोरमा
विशेषणानां चाऽजातेः १२८१, १।२।५२

विशेषणानां चाजातेः। कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठ()आ विपरिणतं संबध्यते। लुप्तप्रत्ययार्थस्येति लभ्यते। तदाह--लुबर्थस्येति। तद्वदिति। प्रकृतिवदित्यर्थः। "लुपि युर्तवद्व्यक्तिवचने" इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम्। पञ्चाला रमणीया इति। पञ्चालानां निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम्। गोदौ रमणीयाविति। गोदयोर्निवासो जनपद इत्यर्थः। अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम्। पञ्चाला जनपद इति। जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम्। गोदौ ग्राम इति। अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम्।

हरीतक्यादिषु व्यक्तिरिति। वार्तिकमिदम्। "लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचन"मिति शेषः। हरीतक्य इति। "हरीतक्यादिभ्यश्चे"ति विकारप्रत्ययस्य लुप्। अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः।

खलतिकादिषु। वार्तिकमिदम्। एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः। खलतिकं वनानीति। "वरणादिभ्यश्चे"ति लुप्। अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः। मनुष्यलुपि प्रतिषेध इति। वार्तिकमिदम्।

मनुष्यलक्षणे इति। मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः। चञ्चा अभिरूप इति। चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यश्चञ्चा। "इवे प्रतिकृतौ" इत्यधिकारे "संज्ञाया"मिति कनो "लुम्मनुष्ये" इति लुप्। अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वं, न तु तद्विशेषणस्याऽभिरूपशब्दस्येति भावः। इति युक्तवद्भावप्रकरणम्।

तत्त्व-बोधिनी
विशेषणानां चाऽजातेः १०३४, १।२।५२

विशेषणानां। यद्यपि सूत्रपाठे "लुपि युक्तल"दिति सत्रादनन्तरमेतत्सूत्रं पठित्वा "तदशिष्य"मित्याशब्धात्वात्तत्रैवेदं व्याख्यातुमुचितम्, तथापि जातेः प्रतिषेधमात्रपरमिदं, न तु युक्तवद्भावपरिमित्याशयेन तत्र नोक्तमित्याहुः। पञ्चाला रमणीया इति। कथं तर्हि "पञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः"इति प्रयोग इति चेत्, जनपदविशेषणत्वादित्येवेहि। पञ्चालविशेषणत्वाभ्युपगमे तु तद्वलिङ्गवचने स्त एव ---पञ्चाला जनपदाः सुभिक्षः सम्पन्नपानीया इति।

हरीतक्यादिषु व्यक्तिः। हरीतक्य इति। "हरीतक्यादिभ्यश्चे"त्यणो लुप्। तत्र हि "लुप् चे"त्यतो लुबनुवर्तते।

खलतिकादिषु वचनम्। खलतिकमिति। "वरणादिभ्येश्चे"ति लुप्।

मनुष्यलुपि प्रतिषेधः। चञ्चेति। "सञ्ज्ञाया"मिति कनो "लुम्मनुष्ये"इति लुप्। "चञ्चा तृणमयः पुमान्"।